मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् ५

संहिता

वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।
तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥

पदपाठः

वि॒श्व॒ऽदानी॑म् । सु॒ऽमन॑सः । स्या॒म॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
तथा॑ । क॒र॒त् । वसु॑ऽपतिः । वसू॑नाम् । दे॒वान् । ओहा॑नः । अव॑सा । आऽग॑मिष्ठः ॥

सायणभाष्यम्

हेदेवाः विश्वदानींसर्वदावयंसुमनसःस्याम शोभनमनस्काभवेम नुशब्दःसमुच्चये उच्चरन्तं उद्यन्तं सूर्यं सर्वदापश्येमच वसूनांवसुपतिः उत्कृष्टधनाधिपतिरग्निः देवानवसाअस्मदीयेनहविषाओहानोवहन् प्रापयन् आगमिष्ठः आगंतृतमः एवंगुणविशिष्टःसन् तथाकरत्अस्मान् तथाविद्यानुक्तप्रकारान्करोतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४