मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् ६

संहिता

इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठ॒ः सर॑स्वती॒ सिन्धु॑भि॒ः पिन्व॑माना ।
प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥

पदपाठः

इन्द्रः॑ । नेदि॑ष्ठम् । अव॑सा । आऽग॑मिष्ठः । सर॑स्वती । सिन्धु॑ऽभिः । पिन्व॑माना ।
प॒र्जन्यः॑ । नः॒ । ओष॑धीभिः । म॒यः॒ऽभुः । अ॒ग्निः । सु॒ऽशंसः॑ । सु॒ऽहवः॑ । पि॒ताऽइ॑व ॥

सायणभाष्यम्

अयमिन्द्रोनेदिष्थमन्तिकतमंयथाभवतितथा अवसारक्षणेनसार्धंआगमिष्ठः आगन्तृतमोस्तु सिंधुभिः स्यन्दनैरुदकैः पिन्वमाना वर्धमाना- नदीरूपासरस्वतीच आगन्तृतमाभवतु ओषधीभिः सार्धं पर्जन्यश्चनोस्माकं मयोभूः सुखस्यभावयिताभवतु अग्निश्चपितेवपुत्रस्यजनकइव सुशंसः सुखेनशंसनीयः सुहवःसुखेनाह्वातव्यश्चभवतु ॥ ६ ॥ आग्रयणेवैश्वदेवस्यचरोः विश्वेदेवासआगतेत्यनुवाक्या सूत्रितंच—विश्वेदेवासआगतयेकेचज्मामहिनोअहिमायाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५