मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १०

संहिता

विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ ।
जु॒षन्तां॒ युज्यं॒ पयः॑ ॥

पदपाठः

विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तुऽभिः॑ । ह॒व॒न॒ऽश्रुतः॑ ।
जु॒षन्ता॑म् । युज्य॑म् । पयः॑ ॥

सायणभाष्यम्

ऋतावृधः ऋतस्ययज्ञस्यवर्धकाः ऋतुभिःकालविशेषैः हवनश्रुतः हवनस्यस्तोत्रस्यश्रोतारः तस्मिन् तस्मिन्यागकालेस्तूयमानाः ईदृ- शाविश्वेसर्वेदेवाः युज्यंयोग्यंपयः आमिक्षारूपं जुषंतांसेवन्तां श्रूयतेहि—तप्तेपयसिदध्यानयतिसावैश्वदेव्यामिक्षेति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५