मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् ११

संहिता

स्तो॒त्रमिन्द्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा ।
इ॒मा ह॒व्या जु॑षन्त नः ॥

पदपाठः

स्तो॒त्रम् । इन्द्रः॑ । म॒रुत्ऽग॑णः । त्वष्टृ॑ऽमान् । मि॒त्रः । अ॒र्य॒मा ।
इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥

सायणभाष्यम्

मरुद्गणः मरुतोगणभूताः परिजनभूतायस्यतादृशइन्द्रः त्वष्टृमान् त्वष्टृसहितोमित्रोर्यमाच नोस्माकंस्तोत्रं इमाहव्या इमानिहवींषिच जुषन्त सेवंतां ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६