मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १३

संहिता

विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

पदपाठः

विश्वे॑ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उप॑ । द्यवि॑ । स्थ ।
ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥

सायणभाष्यम्

हेविश्वेदेवाः मेमदीयमिमंहवंआह्वानंश्रृणुत येयूयं अन्तरिक्षेस्थ अन्तरिक्षलोकेवर्तमानाभवथ येचउपतत्समीपस्थेभूलोकेभवथ येच- द्यविद्युलोकेस्थ येचाग्निजिह्वाः अग्निर्जिह्वास्थानीयोयेषां यद्वा अग्नेर्जिह्वा तयापोष्यमाणत्वात् जिव्हाइत्युच्यन्ते उतवा अपिवा येय- जत्राः यजनीयाः तेसर्वेयूयंआस्तीर्णेस्मिन् बर्हिषि आसद्योपविश्यमादयध्वं सोमेनात्मानंतर्पयथ ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६