मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १५

संहिता

ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ ।
ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायु॒ः क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥

पदपाठः

ये । के । च॒ । ज्मा । म॒हिनः॑ । अहि॑ऽमायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒धऽस्थे॑ ।
ते । अ॒स्मभ्य॑म् । इ॒षये॑ । विश्व॑म् । आयुः॑ । क्षपः॑ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥

सायणभाष्यम्

महिनोमहान्तः अहिमायाः मायेतिप्रज्ञानाम आहन्तृप्रज्ञाः एवंभूतायेकेचनदेवाः ज्मा पृथिवीनामैतत् पृथिव्यांजज्ञिरे प्रादुर्बभूवः येके- चन दिवोद्युलोकत् जज्ञिरे येकेचनअपांसधस्थे सहमादनेस्थाने अन्तरिक्षेजज्ञिरे तेसर्वेदेवाः अस्मभ्यं इषये इष्यतइतिइषिःपुत्रादिः तस्मै- च विश्वंसर्वमायुरन्नंजीवनंवाक्षपः सर्वारात्रीः उस्राः सर्वाण्यहानिच सर्वदानैरंतर्येणवरिवस्यन्तु प्रयच्छन्तु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६