मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् १

संहिता

व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये ।
धि॒ये पू॑षन्नयुज्महि ॥

पदपाठः

व॒यम् । ऊं॒ इति॑ । त्वा॒ । प॒थः॒ । प॒ते॒ । रथ॑म् । न । वाज॑ऽसातये ।
धि॒ये । पू॒ष॒न् । अ॒यु॒ज्म॒हि॒ ॥

सायणभाष्यम्

हेपथस्पते मार्गस्यपालयितः पूषन् धियेकर्मार्थंवाजसातये अन्नस्यलाभायच वयंरथंनयु द्धेरथमिव त्वात्वांअयुज्महियुंज्महि अस्मद- भिमुखंकुर्मः ऊंइतिपूरकः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७