मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् २

संहिता

अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् ।
वा॒मं गृ॒हप॑तिं नय ॥

पदपाठः

अ॒भि । नः॒ । नर्य॑म् । वसु॑ । वी॒रम् । प्रय॑तऽदक्षिणम् ।
वा॒मम् । गृ॒हऽप॑तिम् । न॒य॒ ॥

सायणभाष्यम्

हेपूषन् नर्योनृभ्योहितंवसुधनं अभिप्राप्तुंवीरंदारुद्यस्यविशेषेणईरयितारं गमयितारं प्रयतदक्षिणंपूर्वमन्येभ्योपिदत्तधनं यद्वाप्रयतंशु- द्धंदक्षिणंधनंयस्यतादृशंवामंवननीयं एवंविधं गृहपतिंगृहस्थंनोस्मान्नयप्रापय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७