मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ४

संहिता

वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि ।
साध॑न्तामुग्र नो॒ धियः॑ ॥

पदपाठः

वि । प॒थः । वाज॑ऽसातये । चि॒नु॒हि । वि । मृधः॑ । ज॒हि॒ ।
साध॑न्ताम् । उ॒ग्र॒ । नः॒ । धियः॑ ॥

सायणभाष्यम्

हेउग्र उद्गूर्णबलपूषन् पथोमार्गान्वाजसातयेन्नलाभायविचिनुहि शोधितान् कुरु यैः पथिभिर्गताधनंलभेमहि तादृशान्पथः पृथक्- कुर्वित्यर्थः मृधोबाधकान् तस्करादींश्चविजहि बाधस्व तथा नोस्माकं धियः कर्माणिअन्नलाभार्थंक्रियमाणानिसाधन्तां सिध्यन्तु सफला- निभवन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७