मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ६

संहिता

वि पू॑ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् ।
अथे॑म॒स्मभ्यं॑ रन्धय ॥

पदपाठः

वि । पू॒ष॒न् । आर॑या । तु॒द॒ । प॒णेः । इ॒च्छ॒ । हृ॒दि । प्रि॒यम् ।
अथ॑ । ई॒म् । अ॒स्मभ्य॑म् । र॒न्ध॒य॒ ॥

सायणभाष्यम्

हेपूषन् आरयाप्रतोदेनपणेर्वणिजोहृदयंवितुद विविध्य तस्यपणेर्हृदिहृदयेप्रियमस्मभ्यंअनुकूलंधनंइच्छ दातव्यमितीच्छांजनय अथा- नन्तरंअस्मभ्यंईमेनान् रन्धय वशीकुरु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८