मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ७

संहिता

आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे ।
अथे॑म॒स्मभ्यं॑ रन्धय ॥

पदपाठः

आ । रि॒ख॒ । कि॒कि॒रा । कृ॒णु॒ । प॒णी॒नाम् । हृद॑या । क॒वे॒ ।
अथ॑ । ई॒म् । अ॒स्मभ्य॑म् । र॒न्ध॒य॒ ॥

सायणभाष्यम्

हेकवे प्राज्ञपूषन् पणीनांवणिजांहृदयाहृदयानिआरिखआलिख आलिख्यचकिकिराकीर्णानिप्रशिथिलानिकृणु कुरु मृदूनिकुर्वित्यर्थः अन्यद्गतं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८