मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ८

संहिता

यां पू॑षन्ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे ।
तया॑ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ॥

पदपाठः

याम् । पू॒ष॒न् । ब्र॒ह्म॒ऽचोद॑नीम् । आरा॑म् । बिभ॑र्षि । आ॒घृ॒णे॒ ।
तया॑ । स॒म॒स्य॒ । हृद॑यम् । आ । रि॒ख॒ । कि॒कि॒रा । कृ॒णु॒ ॥

सायणभाष्यम्

हेआघृणे आगतदीप्ते पूषन् बुह्मचोदनींब्रह्मणोन्नस्यप्रेरयित्रींयामारांबिभिर्षि हस्तेधारयसि तयासमस्यसर्वस्यलुब्धजनस्यहृदयंआरिख आलिख किकिराकिकिराणिकीर्णानिप्रशिथिलानिचकुरु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८