मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ९

संहिता

या ते॒ अष्ट्रा॒ गोओ॑प॒शाघृ॑णे पशु॒साध॑नी ।
तस्या॑स्ते सु॒म्नमी॑महे ॥

पदपाठः

या । ते॒ । अष्ट्रा॑ । गोऽओ॑पशा । आघृ॑णे । प॒शु॒ऽसाध॑नी ।
तस्याः॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हेआघृणे आगतदीप्ते पूषन् तेत्वदीयायाअष्ट्राआरागोओपशाउपसेरतइत्योपशाः गावः ओपशायस्याःतादृशी अतएवपशुसाधनीपशूनां- साध्यित्रीभवति तेत्वदीयायास्तस्याः संबंधिसुम्रंसुखंईमहे ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८