मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् १०

संहिता

उ॒त नो॑ गो॒षणिं॒ धिय॑मश्व॒सां वा॑ज॒सामु॒त ।
नृ॒वत्कृ॑णुहि वी॒तये॑ ॥

पदपाठः

उ॒त । नः॒ । गो॒ऽसनि॑म् । धिय॑म् । अ॒श्व॒साम् । वा॒ज॒ऽसाम् । उ॒त ।
नृ॒ऽवत् । कृ॒णु॒हि॒ । वी॒तये॑ ॥

सायणभाष्यम्

उतअपिच हेपूषन् गोषणिंगवांसनित्रीं अश्वसांअश्वानांसनित्रीं वाजसावाजानामन्नानांसनित्रीं उतअपिचनृवत् नृवतींनृणांवनित्रींदात्रीं एवंभूतांधियंबुद्धिंकर्मवानोस्माकंवीतयेखादनायउपभॊगार्थं कृणुहि कुरु ॥ १० ॥

संपूषन्नितिदशर्चंपंचमंसूक्तंभरद्वाजस्यार्षंपौष्णंगायत्रं संपूषन्नित्यनुक्रान्तं नष्टधनमन्विच्छतापुरुषेणैतज्जप्यं सूत्रितंच—संपूषन्विदु- षेतिनष्टधनमधिजिगमिषन्मूह्ळोवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८