मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् २

संहिता

समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।
इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥

पदपाठः

सम् । ऊं॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति ।
इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥

सायणभाष्यम्

पूष्णानुगृहीतावयंसंगमेमहि तेनजनेनसंगच्छेमहि योजनोगृहान् येषुगृहेष्वस्मदीयानष्टाः पर स्तिष्ठन्ति तान्गृहान् अभिशासति अभिशास्ति आभिमुख्येनबोधयति यश्चइमेत्वदीयानष्टाःपशवः एवएवंतिष्ठन्तीतिचब्रवत् ब्रूयात् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९