मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ३

संहिता

पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।
नो अ॑स्य व्यथते प॒विः ॥

पदपाठः

पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ ।
नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥

सायणभाष्यम्

पूष्णः पोषकस्यदेवस्यचक्रंआयुधनंरिष्यति नविनश्यति अस्यचक्रस्यकोशश्चनावपद्यते नहीयते अस्यपविर्धाराचनोनैवव्यथते कुंठीभवति तेनचक्रेणचोरान् हत्वाअस्मदीयंधनंप्रकाशयेतिभावः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९