मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ४

संहिता

यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।
प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥

पदपाठः

यः । अ॒स्मै॒ । ह॒विषा । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ ।
प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥

सायणभाष्यम्

योयजमानः अस्मैपूष्णेहविषाचरुपुरोडाशादिना अविधत् परिचरति तंयजमानंपूषानापिमृष्यते अपिशब्दईषदर्थे ईषदपिनहिनस्ति सचप्रथमोमुख्यः सन् वसुधनंविन्दते लभते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९