मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ६

संहिता

पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।
अ॒स्माकं॑ स्तुव॒तामु॒त ॥

पदपाठः

पूष॑न् । अनु॑ । प्र । गाः । इ॒हि॒ । यज॑मानस्य । सु॒न्व॒तः ।
अ॒स्माक॑म् । स्तु॒व॒ताम् । उ॒त ॥

सायणभाष्यम्

हेपूषन् सुन्वतः सोमाभिषवंकुर्वतोयजमानस्यगाः पशून् अनुप्रेहि रक्षणार्थामनुगच्छ उतअपिचस्तुवतांत्वद्विषयंस्तोत्रंकुर्वतामस्माकं- गाश्चानुगच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०