मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ९

संहिता

पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ॥

पदपाठः

पूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न ।
स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥

सायणभाष्यम्

हेपूषन् पोषक तेत्वदीयेव्रतेकर्मणिवर्तमानावयं कदाचनकदाचिदपिनरिष्येम हिंसितान भवेम तादृशाश्चवयंइहास्मिन्कर्मणितेतव- स्तोतारः स्मसिस्मः भवामः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०