मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५५, ऋक् १

संहिता

एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै ।
र॒थीरृ॒तस्य॑ नो भव ॥

पदपाठः

आ । इ॒हि॒ । वाम् । वि॒ऽमु॒चः॒ । न॒पा॒त् । आघृ॑णे । सम् । स॒चा॒व॒है॒ ।
र॒थीः । ऋ॒तस्य॑ । नः॒ । भ॒व॒ ॥

सायणभाष्यम्

हेविमुचोनपात् विमुंचतिसृष्टिकालेस्वसकाशात् सर्वाः प्रजाः विसृजतीतिविमुक् प्रजापतिः तस्यपुत्र आघृणेआगतदीप्ते पूषन् वांवा- तिगच्छतिस्तुतिंप्राप्नोतीतिवास्तोता वागतिगंधनयोरित्यस्मादातोमनिन्नितिविच् वांगन्तारंस्तोतारंमांएहि आगच्छ आवांचसंसचावहै समयावसंगच्छवहै यद्वा आवामित्यस्याद्याक्षरलोपेवामितिभवति आवांसचावहैइतिसंबन्धः यावसंगच्छावहैतादृश स्त्वंनोस्माकंऋतस्य- यज्ञस्यरथीः रंहितानेताभव तथासतितत्रत्यंहविस्त्वयापिलभ्यतइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१