मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५५, ऋक् २

संहिता

र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।
रा॒यः सखा॑यमीमहे ॥

पदपाठः

र॒थिऽत॑मम् । क॒प॒र्दिन॑म् । ईशा॑नम् । राध॑सः । म॒हः ।
रा॒यः । सखा॑यम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

रथितमंअतिशयेनरथिनं यद्वाअतिशयेनरंहितारंनेतारंकपर्दिनं कपर्दश्चूडातद्वान्तं राध्नोत्यनेनेतिराधोधनं महोमहतोराधसोधनस्य- ईशानं स्वामिनं सखायं अस्माकंमित्रं एवंविधुंपूषणंरायोधनानिईमहेयाचामहे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१