मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५५, ऋक् ३

संहिता

रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।
धीव॑तोधीवत॒ः सखा॑ ॥

पदपाठः

रा॒यः । धारा॑ । अ॒सि॒ । आ॒घृ॒णे॒ । वसोः॑ । रा॒शिः । अ॒ज॒ऽअ॒श्व॒ ।
धीव॑तःऽधीवतः । सखा॑ ॥

सायणभाष्यम्

हेआघृणे आगतदीप्ते पूषन् रायोधनस्यधारासि प्रवाहोभवसि स्तोतृभ्योबहुधनंनैरंतर्येण प्रयच्छसीत्यर्थः अजाश्वः अजाः छागाएव- अश्वाः अश्वकार्यापन्नायस्यतादृशपूषन् वसोः वसुनोधनस्यराशिः संघश्चभवसि धनसंघश्चत्वय्येवनिवसतीत्यर्थः धीवतोधीवतः सर्वस्य- स्तोत्रवतः पुरुषस्यसखामित्रभूतश्चभवसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१