मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५५, ऋक् ४

संहिता

पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् ।
स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥

पदपाठः

पू॒षण॑म् । नु । अ॒जऽअ॑श्वम् । उप॑ । स्तो॒षा॒म॒ । वा॒जिन॑म् ।
स्वसुः॑ । यः । जा॒रः । उ॒च्यते॑ ॥

सायणभाष्यम्

अजाश्वंछागवाहनंवाजिनंअन्नवन्तंबलवन्तंवा षूषणंपोषकंदेवंनुअद्यउपस्तोषाम उपस्तवाम यः पूषास्वसुरुषसोजारः उपपतिरित्यु- च्यते तंपूषणमित्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१