मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५५, ऋक् ५

संहिता

मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः ।
भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ॥

पदपाठः

मा॒तुः । दि॒धि॒षुम् । अ॒ब्र॒व॒म् । स्वसुः॑ । जा॒रः । शृ॒णो॒तु॒ । नः॒ ।
भ्राता॑ । इन्द्र॑स्य । सखा॑ । मम॑ ॥

सायणभाष्यम्

मातुः निर्मात्र्याः रात्रेः दिधिषुंपतिंपूषणंअब्रवं स्तौमि स्वसुरुषसोजारश्चपूषानोस्माकंस्तोत्राणिश्रृणोतु इन्द्रस्यभ्रातासहजातः पूषममस्तोतुः सखामित्रभूतोस्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१