मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५५, ऋक् ६

संहिता

आजासः॑ पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् ।
दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥

पदपाठः

आ । अ॒जासः॑ । पू॒षण॑म् । रथे॑ । नि॒ऽशृ॒म्भाः । ते । ज॒न॒ऽश्रिय॑म् ।
दे॒वम् । व॒ह॒न्तु॒ । बिभ्र॑तः ॥

सायणभाष्यम्

अजासः अजाः छागाः निश्रृंभाः निश्रथ्यसंबध्यहर्तारः तेपूष्णोवाहनतयाप्रसिद्धाः छागाः जनश्चियंजनंस्तोतृसंघंश्रयतिगच्छतीतिजनश्रीः तंपूषणंदेवंरथेबिभ्रतोधारयन्तः आवहन्तुआनयन्तु ॥ ६ ॥

यएनमितिषळृचंसप्तमंसूक्तं भरद्वाजस्यार्षंपौष्णमंत्यानुष्टुप् आदौपंचगायत्र्यः तथाचानुक्रान्तं—यएनमन्त्यानुष्टुबिति । गतोविनियो- गः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१