मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५६, ऋक् १

संहिता

य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् ।
न तेन॑ दे॒व आ॒दिशे॑ ॥

पदपाठः

यः । ए॒न॒म् । आ॒ऽदिदे॑शति । क॒र॒म्भ॒ऽअत् । इति॑ । पू॒षण॑म् ।
न । तेन॑ । दे॒वः । आ॒ऽदिशे॑ ॥

सायणभाष्यम्

यःस्तोता एनंपूषणंपोषकंकरंभात्करंभानांघृतमिश्रानांयवसक्तूनांअत्तेतिआदिदेशति अभिष्टौति तेनपुरुषेणअन्योदेवःनआदिशे आदेष्ट- व्यः स्तोतव्योनभवति पूष्णएवसर्वस्याभितमस्यधनस्यलाभात् देवतान्तरंनस्तौतिइत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२