मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५६, ऋक् ५

संहिता

इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् ।
आ॒रात्पू॑षन्नसि श्रु॒तः ॥

पदपाठः

इ॒मम् । च॒ । नः॒ । गो॒ऽएष॑णम् । सा॒तये॑ । सी॒स॒धः॒ । ग॒णम् ।
आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥

सायणभाष्यम्

हेपूषन् नोस्माकंसातयेलाभायइमंचगणंमनुष्यसंघं गवेषणं गवामेषयितारं सीषधःसाधय हेपूषन्आरात् दूरदेशेपित्वंश्रुतोविश्रुतः प्रख्यातोसि भवसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२