मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५७, ऋक् १

संहिता

इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ ।
हु॒वेम॒ वाज॑सातये ॥

पदपाठः

इन्द्रा॑ । नु । पू॒षणा॑ । व॒यम् । स॒ख्याय॑ । स्व॒स्तये॑ ।
हु॒वेम॑ । वाज॑ऽसातये ॥

सायणभाष्यम्

इतरेतरयोगादिन्द्रपूषन् शब्दयोरुभयत्रद्विवचनं इन्द्रापूषणौदेवौनुअद्यवयंस्वस्तयेसख्यायशोभनायसखित्वाय वाजसातये वाजस्या- न्नस्यबलस्यवासातते संभजनाउयचहुवेम आह्वयाम स्तवाम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३