मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५७, ऋक् २

संहिता

सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑ः सु॒तम् ।
क॒र॒म्भम॒न्य इ॑च्छति ॥

पदपाठः

सोम॑म् । अ॒न्यः । उप॑ । अ॒स॒द॒त् । पात॑वे । च॒म्वोः॑ । सु॒तम् ।
क॒र॒म्भम् । अ॒न्यः । इ॒च्छ॒ति॒ ॥

सायणभाष्यम्

चम्वोःअधिषवणफलकयोः सुतमभिषुतंसोमंअन्यः अनयोरेकतरइन्द्रः पातवेपातुंउपासदत् उपसीदति उपगच्छति अन्यएकतरः पूषा- करंभंघृतसिक्तंसत्त्कात्मकंहविः भक्षयितुमिच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३