मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५७, ऋक् ४

संहिता

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः ।
तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥

पदपाठः

यत् । इन्द्रः॑ । अन॑यत् । रितः॑ । म॒हीः । अ॒पः । वृष॑न्ऽतमः ।
तत्र॑ । पू॒षा । अ॒भ॒व॒त् । सचा॑ ॥

सायणभाष्यम्

यद्यदा वृषन्तमः अतिशयेनवर्षिताइन्द्रः परितः परितोगंत्रीर्महीः महतीः अपःवृष्ट्युदकानि अनयत् इमंलोकंप्रापयति तत्रतदानींपूषा- पोषकोदेवः सचाभवत् अस्येन्द्रस्यसहायोभवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३