मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५७, ऋक् ५

संहिता

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व ।
इन्द्र॑स्य॒ चा र॑भामहे ॥

पदपाठः

ताम् । पू॒ष्णः । सु॒ऽम॒तिम् । व॒यम् । वृ॒क्षस्य॑ । प्र । व॒याम्ऽइ॑व ।
इन्द्र॑स्य । च॒ । आ । र॒भा॒म॒हे॒ ॥

सायणभाष्यम्

पूष्णः पोषकस्यदेवस्यइन्द्रस्यच तांप्रसिद्धांसुमतिंकल्याणींमतिंअनुग्रहबुद्धिं वृक्षस्यमहीरुहस्यप्रवयां प्रकृष्टांदृढांशाखामिववयंआर- भामहे अवलंबामहे आश्रयामहइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३