मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५८, ऋक् १

संहिता

शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥

पदपाठः

शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । द्यौःऽइ॑व । अ॒सि॒ ।
विश्वाः॑ । हि । मा॒याः । अव॑सि । स्व॒धा॒ऽवः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥

सायणभाष्यम्

हेपूषन् तेतवशुक्रंशुक्लवर्णंअन्यदेकमहर्भवतिवासरात्मकं तथातेतवसंबन्धियजतं यजिरत्रसंगतिकरणेवर्तते यजनीयं प्रकाशेनसंगमनी- यं स्वतः कृष्णवर्णं अन्यदेकमहर्भवतिरात्र्याख्यं इत्थंविषुरूपे शुक्लकृष्णतयानानारूपे अहनीतवमहिम्नानिष्पद्येते यद्वाहेपूषन् त्वदी- यमन्यदेकं रूपंशुक्लंनिर्मलंदिवसस्योत्पादकं त्वदीयमन्यदेकंरूपंयजतं केवलंयजनीयंनप्रकाशकं रात्रेरुत्पादकं अतएवविषुरूपे विषमरूपे- अहनीअहश्चरात्रिश्चभवतः अहोरात्रयोः निर्माणेसूर्यएवकर्ता कथमस्यप्रसक्तिरितितत्राह—द्यौरिवासि यथाद्यौरादित्यःप्रकाशयितातथा- त्वंप्रकाशकोसि कुतइत्यतआह—हेस्वधावोन्नवन् पूषन् विश्वाः सर्वाः मायाः प्रज्ञाः हियस्मात् कारणात् अवसिरक्षसि अतः कारणात् त्वं- सूर्यइवभवसीत्यर्थः तादृशस्यतेतवभद्राकल्याणीरातिर्दानंइहास्मासुअस्तुभवतु यास्कस्त्वाह—शुक्रंतेअन्यल्लोहितंतेअन्यद्यज्ञियंतेअन्य- दयज्ञियंते अन्यदितिवाविषमरूपेअहनीकर्मणाद्यौरिवचासिसर्वाणिचप्रज्ञानान्यवस्यन्नवन्निति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४