मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५८, ऋक् ३

संहिता

यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥

पदपाठः

याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति ।
ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥

सायणभाष्यम्

हेपूषन् तेत्वदीयाःयाहिरण्ययीःहिरण्मय्यः हितरमणीयानावः समुद्रेउदधावन्तर्मध्येअन्तरिक्षेनभसिचचरन्ति संचरन्ति ताभिर्नौभिः सूर्यस्यदूत्यंयासिगच्छसि कदाचित् देवैः सार्धंसूर्येअसुरवधार्थंप्रस्थितेसति तस्यभार्यास्वभर्तरिसंजातोत्सुकाबभूव तांप्रतिसूर्यःपूषणंप्राहै- षीत् तेनचा त्रपूषास्तूयते अपिचत्वंश्रवोहविर्लक्षणमन्नंइच्छमानः इच्छन् कामेनपश्वादिविषयेण स्तोतृभिः कृतः वशीकृतोसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४