मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ४

संहिता

य इ॑न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा ।
जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥

पदपाठः

यः । इ॒न्द्रा॒ग्नी॒ इति॑ । सु॒तेषु॑ । वा॒म् । स्तव॑त् । तेषु॑ । ऋ॒त॒ऽवृ॒धा॒ ।
जो॒ष॒ऽवा॒कम् । वद॑तः । प॒ज्र॒ऽहो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः॑ । च॒न ॥

सायणभाष्यम्

हेऋतावृधा ऋतस्यसत्यस्ययज्ञस्यवावर्धयिताराविन्द्राग्नी सुतेष्वभिषुतेषुसोमेषु यःस्तोता वांयुवांस्तव्त् कुत्सितंस्तूयात् तेषुसोमेषु- मध्येजोषवाकंवदतः जोषंजोषयितव्यंप्रीतिहेतुत्वेनकर्तव्यं स्वयमप्रीतिकरंतादृशंवाकंवाक्यंवदतस्तस्यस्तोतुः सोमंहेपज्रहोषिणा पज्रः प्रार्जितः प्रसिद्धः होषोघोषः स्तोत्रंययोस्तादृशौहेदेवौ युवांनभसथोनभक्षयथः चनेतिपादपूरकः अत्रनिरुक्तं—जोषवाकमित्यविज्ञात- नामधेयंजोषयितव्यंभवति । यइन्द्राग्नीसुतेषुवांसोमेषुस्तौतितेष्वृतस्यवर्धयितारौनस्याश्नीथोयोयंजोषवाकंवदतिविजंजयः प्रार्जितहो- षिणौदेवौनतस्याश्नीथइति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५