मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ६

संहिता

ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती ।
ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥

पदपाठः

ह॒तः । वृ॒त्राणि॑ । आर्या॑ । ह॒तः । दासा॑नि । सत्प॑ती॒ इति॒ सत्ऽप॑ती ।
ह॒तः । विश्वाः॑ । अप॑ । द्विषः॑ ॥

सायणभाष्यम्

ताविन्द्राग्नीआर्याआर्यैः कर्मानुष्ठातृभिः कृतानिवृत्राण्युपद्रवजातानिहतःहिंस्तः तथासत्पतीसतांपालयितारौइन्द्राग्नी दासानिदासाः कर्महीनाः शत्रवःतैः कृतानिचोपद्रवजातानि हितः अपिचविश्वाःसर्वाद्विषः द्वेष्ट्रीःशत्रुभूताःप्रजाः अपहतःविनाशयतः अतोस्माकमप्ये- वमेवकुरुतामितिभावः ॥ ६ ॥ चातुर्विंशिकेहनिप्रातः स्वनेच्छावाकशस्त्रेइन्द्राग्नीयुवामितिषळहः स्तोत्रियस्तृचः सूत्रितंच—इन्द्राग्नीयुवामिमेयज्ञस्यहिस्थऋत्वि- जेत्यच्छावाकस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८