मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ११

संहिता

य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्य॑ः ।
द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥

पदपाठः

यः । इ॒द्धे । आ॒ऽविवा॑सति । सु॒म्नम् । इन्द्र॑स्य । मर्त्यः॑ ।
द्यु॒म्नाय॑ । सु॒ऽतराः॑ । अ॒पः ॥

सायणभाष्यम्

योमर्त्योमनुष्यः इद्धेदीप्तेग्नौसुम्नंसुखकरंहविःइन्द्रस्यइन्द्रायआविवासति परिचरतिप्रयच्छति चतुर्थ्यर्थेषष्ठी तस्यमर्त्यस्यद्युम्नायद्योत- मानायान्नाय तदर्थंसुतराःसुखेनतरणीयाःअपः उदकानिष्ट्यात्मकानिइन्द्रःकरोतीतिशेषः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९