मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् १

संहिता

इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ ।
या शश्व॑न्तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥

पदपाठः

इ॒यम् । अ॒द॒दा॒त् । र॒भ॒सम् । ऋ॒ण॒ऽच्युत॑म् । दिवः॑ऽदासम् । व॒ध्रि॒ऽअ॒श्वाय॑ । दा॒शुषे॑ ।
या । शश्व॑न्तम् । आ॒ऽच॒खाद॑ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि॑ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥

सायणभाष्यम्

इयंसरस्वती रभसंवेगवन्तंऋणच्युतं वैदिकस्यदेवऋषिपितृसंबन्धिनोलैकिकस्यचऋणस्यच्यावयितारं दिवोदासमेतत्संज्ञंपुत्रं दाशुषेहवींषिदत्तवतेवध्र्यश्वाय एतत्संज्ञायऋषयेअददात् दत्तवती । यासरस्वतीशश्वन्तंबहुलंपणिंपणनशीलंवणिजं अदातृजनं अवसं- केवलंस्वात्मनएवत र्पकं आचखादआजघान । सेयमददादित्यन्वयः अथप्रत्यक्षीकृत्यस्तौति हेसरस्वति देवि तातानि पुत्रदानादीनितेत्व- दीयानिदात्राणिदानानि तविषातविषाणिमहान्तिभवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०