मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् २

संहिता

इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभि॑ः ।
पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॒ः सर॑स्वती॒मा वि॑वासेम धी॒तिभि॑ः ॥

पदपाठः

इ॒यम् । शुष्मे॑भिः । बि॒स॒खाःऽइ॑व । अ॒रु॒ज॒त् । सानु॑ । गि॒री॒णाम् । त॒वि॒षेभिः॑ । ऊ॒र्मिऽभिः॑ ।
पा॒रा॒व॒त॒ऽघ्नीम् । अव॑से । सु॒वृ॒क्तिऽभिः॑ । सर॑स्वतीम् । आ । वि॒वा॒से॒म॒ । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

सरस्वतीदेवतारूपेणनदीरूपेणचवर्तते देवतारूपास्तुताधुनानयानदीरूपांसरस्वतींस्तौति । इयं नदीरूपासरस्वतीशुष्मैः शोषकै- रात्मीयैर्बलैः तविषेभिः महद्भिरूर्मिभिः तरंगैः गिरीणांपर्वतानांतीरसंबद्धानां सानुसानूनिअरुजद्भनक्ति । बिसखाइवबिसंखनतीति- बिसखाः सयथाबिसार्थंपंकंरुजतितद्वत् तांसरस्वतींपारावतघ्नीं परावतिदूरदेशेविद्यमानस्यापिवृक्षादेर्हंत्रीं सुवृक्तिभिः स्तुतिभिः धीतिभिःकर्मभिश्चअवसेरक्षणार्थंआविवासेम परिचरेम । यद्वा पारावतघ्नीं पारावारेपरर्वाचीतीरेतयो र्घातिनीम् । उक्तंच—पारावत- घ्नींपारावारघातिनीमिति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०