मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ३

संहिता

सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ ।
उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥

पदपाठः

सर॑स्वति । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । प्र॒ऽजाम् । विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ ।
उ॒त । क्षि॒तिऽभ्यः॑ । अ॒वनीः॑ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥

सायणभाष्यम्

हेसरस्वति देवनिदोदेवानांनिन्दकानसुरान्निबर्हयन् न्यबर्हयः अवधीः । तथाविश्वस्यव्याप्तस्यमायिनोमायाविनः बृसयस्य बृसयइति- त्वष्टुर्नामधेयं त्वष्टुःप्रजांपुत्रंवृत्रासुरंचन्यवधीः । त्वत्साहा य्यादेवइन्द्रोहतवानित्यर्थः । उतअपिच हेवाजिनीवति अन्नवतिसरस्वति त्वं- क्षितिभ्योमनुष्येभ्यः अवनीः असुरैरपहृताभूमीःअविन्दः अलंभयः । एभ्योमनुष्येभ्यः विषमुदकंचअस्रवःअक्षारय । यद्वा क्षितयोसुर- जनाः तेभ्यः सकाशात् अवनीःभूमीः अविन्दोलब्धवानसि तान्हत्वाएभ्यश्चासुरेभ्यः विषंमृतिहेतुभूतंगरलंअस्रवः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०