मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ५

संहिता

यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते ।
इन्द्रं॒ न वृ॑त्र॒तूर्ये॑ ॥

पदपाठः

यः । त्वा॒ । दे॒वि॒ । स॒र॒स्व॒ति॒ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते ।
इन्द्र॑म् । न । वृ॒त्र॒ऽतूर्ये॑ ॥

सायणभाष्यम्

हेदेवि सरस्वति यःस्तोतावृत्रतूर्येसंग्रामेधनेहितेनिहितेनिमित्तभूतेसति इन्द्रंनइन्द्रमिवत्वां उपब्रूते स्तौति तंरक्षेतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०