मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ६

संहिता

त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि ।
रदा॑ पू॒षेव॑ नः स॒निम् ॥

पदपाठः

त्वम् । दे॒वि॒ । स॒र॒स्व॒ति॒ । अव॑ । वाजे॑षु । वा॒जि॒नि॒ ।
रद॑ । पू॒षाऽइ॑व । नः॒ । स॒निम् ॥

सायणभाष्यम्

हेदेवि दानादिगुणयुक्ते हेवाजिनि वाजोबलमन्नंवातद्युक्तेहेसरस्वति त्वंवाजेषुसंग्रामेषुअव अस्मान्रक्ष । अपिच नोस्मभ्यंपूषेवपोषकोदेव- इव सनिंसंभजनीयंधनंरद विलिख प्रयच्छेतियावत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१