मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ७

संहिता

उ॒त स्या न॒ः सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः ।
वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥

पदपाठः

उ॒त । स्या । नः॒ । सर॑स्वती । घो॒रा । हिर॑ण्यऽवर्तनिः ।
वृ॒त्र॒ऽघ्नी । व॒ष्टि॒ । सु॒ऽस्तु॒तिम् ॥

सायणभाष्यम्

उतअपिच स्यासाप्रसिद्धासरस्वती घोराशत्रूणांभयकारिणी हिरण्यवर्तनिः वर्ततेअनेनेतिवर्तनिः रथः हिरण्यमयोवर्तनिर्यस्याः सात- थोक्ता वृत्रघ्नी वृत्राणाशत्रूणांहंत्री एवंभूतासासरस्वती नोस्मदीयांसुष्टुतिं शोभनांस्तुतिंवष्टिकामयतां ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१