मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् १०

संहिता

उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।
सर॑स्वती॒ स्तोम्या॑ भूत् ॥

पदपाठः

उ॒त । नः॒ । प्रि॒या । प्रि॒यासु॑ । स॒प्तऽस्व॑सा । सुऽजु॑ष्टा ।
सर॑स्वती । स्तोम्या॑ । भू॒त् ॥

सायणभाष्यम्

उतअपिच नोस्माकंप्रियासुप्रियाणांमध्येप्रियाप्रियतमा सप्तस्वसागायत्र्यादीनिच्छंदासि सवसारोयस्यास्तादृशी नदीरूपायास्तुगं- गाद्याः स्वसारः सुजुष्टाः सुष्ठुपुरातनैरृषिभिः सेविता एवंभूतासरस्वतीदेवीस्तोम्याभूत् स्तोतव्याभवतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१