मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ११

संहिता

आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अ॒न्तरि॑क्षम् ।
सर॑स्वती नि॒दस्पा॑तु ॥

पदपाठः

आ॒ऽप॒प्रुषी॑ । पार्थि॑वानि । उ॒रु । रजः॑ । अ॒न्तरि॑क्षम् ।
सर॑स्वती । नि॒दः । पा॒तु॒ ॥

सायणभाष्यम्

पार्थिवानि पृथिव्याःसंबन्धीनि उरुउरूणि विस्तीर्णानि रजोरजांसिलोकान् अन्तरिक्षं अन्तराक्षान्तंनभश्च आपप्रुषी स्वतेजसापूरि- तवती । सरस्वतीदेवी निदः निन्दकाच्छत्रोः पातु अस्मान्रक्षतु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२