मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् १२

संहिता

त्रि॒ष॒धस्था॑ स॒प्तधा॑तु॒ः पञ्च॑ जा॒ता व॒र्धय॑न्ती ।
वाजे॑वाजे॒ हव्या॑ भूत् ॥

पदपाठः

त्रि॒ऽस॒धस्था॑ । स॒प्तऽधा॑तुः । पञ्च॑ । जा॒ता । व॒र्धय॑न्ती ।
वाजे॑ऽवाजे । हव्या॑ । भू॒त् ॥

सायणभाष्यम्

त्रिषधस्था त्रिषुलोकेषुसहावतिष्ठमाना त्रिलोकव्यापिनि सप्तधातुः सप्तधातवोवयवाः गायत्र्याद्यागंगाद्यावायस्याःसातथोक्ता पंच- जाताजातानिनिषादपंचमान् चतुरोवर्णान् गंधर्वादीन्वावर्धयन्ती अभिवृद्धान्कुर्वन्ती ईदृशीसरस्वती वाजेवाजे युद्धेयुद्धेसर्वेषुयुद्धेषु हव्याभूत् ह्वातव्याभवति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२