मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् २

संहिता

ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः ।
पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥

पदपाठः

ता । य॒ज्ञम् । आ । शुचि॑ऽभिः । च॒क्र॒मा॒णा । रथ॑स्य । भा॒नुम् । रु॒रु॒चुः॒ । रजः॑ऽभिः ।
पु॒रु । वरां॑सि । अमि॑ता । मिमा॑ना । अ॒पः । धन्वा॑नि । अति॑ । या॒थः॒ । अज्रा॑न् ॥

सायणभाष्यम्

किंच ता तौ प्रसिध्दौ अश्विनौ यज्ञं अस्मदीयं यागं आचक्रमाणा अभिचक्रर्माणौ शुचिभिर्निर्मलैः रजोभिः स्वीयैः तेजोभिः रजॊरजतेर्ज्यॊतीरजउच्यतइतियास्कॆनॊक्तत्वात् रथस्य स्वकीयस्य रथस्य भानुं दीप्तिं रुरुचुः रॊचयेते । अपि च पुरु बहूनि वरांसि तमॊनिवारकाणि तॆजांसि अमिता अपरिमितानि मिमाना निर्मिमाणौ अप उद्दिश्य धन्वानि मरुप्रदॆशान् अज्रान् स्वकीयान् अश्वान् अतियाथ: अतिक्रामयथ: ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः