मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ३

संहिता

ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथु॒ः शश्व॒दश्वै॑ः ।
मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥

पदपाठः

ता । ह॒ । त्यत् । व॒र्तिः । यत् । अर॑ध्रम् । उ॒ग्रा॒ । इ॒त्था । धियः॑ । ऊ॒ह॒थुः॒ । शश्व॑त् । अश्वैः॑ ।
मनः॑ऽजवेभिः । इ॒षि॒रैः । श॒यध्यै॑ । परि॑ । व्यथिः॑ । दा॒शुषः॑ । मर्त्य॑स्य ॥

सायणभाष्यम्

ता ह तौ खलु उग्रा उग्रौ अश्विनौ युवां यत् अरध्रं असमृद्धं त्यद्वैर्तिर्यजमानस्य तद्गृहं समर्धयितुं गच्छथ: । किंचेत्था इत्थं धियः स्तॊतॄन् इषिरैः एषणीयै: काम्यै: मनॊजवेभिर्मनॊवेगै: अश्वै: स्वीयैरश्वै: शश्वत्सर्वदा ऊहथु: स्वर्गं प्रापयथ: । मर्त्यस्य मनुष्यस्य दाशुषॊयजमानस्यव्यथि र्हिंसक: परिशयध्यै परिशयनाय दीर्घनिद्रायै युवाभ्यां क्रियतां ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः