मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ५

संहिता

ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे ।
या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥

पदपाठः

ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒शाक॑ऽतमा । प्र॒त्ना । नव्य॑सा । वच॑सा । आ । वि॒वा॒से॒ ।
या । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठा । ब॒भू॒वतुः॑ । गृ॒ण॒ते । चि॒त्ररा॑ती॒ इति॑ चि॒त्रऽरा॑ती ॥

सायणभाष्यम्

या यौ शंसते शस्त्रै: स्तुतिं कुर्वते स्तुवते स्तोत्रै: स्तुतिं कुर्वते जनाय शंभविष्ठा अतिशयेन सुखस्य भावयितारौ अतिशयेन सुखस्वरूपौ वा गृणते स्तोत्रशस्त्रव्यतिरिक्तलौकिकस्तुतिभि: स्तुवते च चित्रराती विचित्रदानौ बभूवतु: । ता तौ वल्गू वलनशीलौ रुचिरौ वा पुरुशाकतमा अतिशयेन बहुकर्माणौ बहुसाहायौ वा प्रत्ना प्रत्नौ पुराणौ प्रत्नं प्रदिवइति पुराणनामसु पाठात् दस्रा दर्शनीयौ अश्विनौ नव्यसा नवतरेण वचस स्तुत्य आविवासे परिचरामि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः