मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ६

संहिता

ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः ।
अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥

पदपाठः

ता । भु॒ज्युम् । विऽभिः॑ । अ॒त्ऽभ्यः । स॒मु॒द्रात् । तुग्र॑स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।
अ॒रे॒णुऽभिः॑ । योज॑नेभिः । भु॒जन्ता॑ । प॒त॒त्रिऽभिः॑ । अर्ण॑सः । निः । उ॒पऽस्था॑त् ॥

सायणभाष्यम्

ता तावश्विनौ युवां तुग्रस्य सूनुं भुज्युं भुज्युनामकं समुद्रमध्यॆ भग्ननावं भुजन्ता रक्षन्तौ अरॆणुभिः रॆणुसहितैः आन्तरिक्षैः रजॊभिर्मार्गैः यॊजनॆभिःरथयुक्तैः पतत्रिभिः पतनवद्भिः विभिः अश्वैः अर्णसॊजलस्य उपस्थात् यॊनॆः समुद्रात् अद्भ्यॊ निरूहथुः निरगमयतम् । समुद्रादद्भ्यइति प्रयॊगॊ मातुर्गृहाद्गच्छतीतिवत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः