मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ७

संहिता

वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः ।
द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥

पदपाठः

वि । ज॒युषा॑ । र॒थ्या॒ । या॒त॒म् । अद्रि॑म् । श्रु॒तम् । हव॑म् । वृ॒ष॒णा॒ । व॒ध्रि॒ऽम॒त्याः ।
द॒श॒स्यन्ता॑ । श॒यवे॑ । पि॒प्य॒थुः॒ । गाम् । इति॑ । च्य॒वा॒ना॒ । सु॒ऽम॒तिम् । भु॒र॒ण्यू॒ इति॑ ॥

सायणभाष्यम्

रथ्या हॆ रथारूढावश्विनौ जयुषा जयशीलॆन रथॆन अद्रिं मार्गॆ स्थितं पर्वतं वियातं व्यबाधॆथाम् । यातिरत्र वधकर्मा तथा च निगमान्तरं-विभिन्दुनानासत्यारथॆनविपर्वताँअजरयूअयातमिति । वृषणा कामानां वर्षितारौ वध्रिमत्याः पुत्रार्थिन्याः हवमाह्वानं शृतं शृणुतं दशस्यन्ता स्तॊतृभ्यः कामान्प्रयच्छन्तौ शयवॆ युवां स्तुवतॆ गां निवृत्तप्रसवां पिप्यथुः क्षीरॆणाप्याययतम् । तथाचनिगमान्तरं-शयवॆचिन्नासत्याशचीभिर्जसुरयॆस्तर्यंपिप्यथुर्गामिति । सुष्टुतिं इतीथ्थं सुमतिं च्यवाना गच्छन्तौ भुरण्यू सर्वत्र गन्तारौ यज्ञस्य भर्तारौ वा भवतं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः